|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.24. अध्यायः 024
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
नारदेन गरुडंप्रति विनतायाः कद्रूदास्यनिवेदनम्॥ 1 ॥ तच्छ्रवणखिन्नेन तेन कद्रूंप्रति स्वमातुर्दास्यान्मोचनयाचना ॥ 2 ॥ कद्र्वा गरुडंप्रत्यमृतानयने मातुर्दास्यान्मोचनोक्तिः॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
ततः कद्रूर्हसन्ती च विनतां धर्मचारिणीम्।
दासीवत्प्रेषयामास सा च सर्वं चकार तत्॥ 13-24-1(81862)
न विवर्णा न संक्षुब्धा न च क्रुद्धा न दुःखिता।
प्रेष्यकर्म चकारास्या विनता कमलेक्षणा॥ 13-24-2(81863)
इमा दिशश्चतस्रोऽस्याः प्रेष्यभावेन वर्तिताः।
अथ स्म वैनतेयं वै बलदर्पौ समीयतुः॥ 13-24-3(81864)
तं दर्पवशमापन्नं परिधावन्तमन्तिकात्।
ददर्श नारदो राजन्देवर्षिर्दर्पसंयुतम्॥ 13-24-4(81865)
तमब्रवीच्च देवर्षिर्नारदः प्रहसन्निव।
किं दर्पवशमापन्नो न वै पश्यसि मातरम्॥ 13-24-5(81866)
बलेन दृप्तः सततमहंमानकृतः सदा।
दासीं पन्नगराजस्य मातुरन्तर्गृहे सतीम्॥ 13-24-6(81867)
तमब्रवीद्वैनतेयः कर्म किं तन्महामते।
जनयित्री मयि सुते जाता दासी तपस्विनी॥ 13-24-7(81868)
अथाब्रवीदृषिर्वाक्यं दीव्यती विजिता खग।
निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह॥ 13-24-8(81869)
गरुड उवाच। 13-24-9x(6801)
कथं जिता निकृत्या सा भगवञ्जननी मम।
ब्रूहि तन्मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम्॥ 13-24-9(81870)
ततस्तस्य यथावृत्तं सर्वं तन्नारदस्तदा।
आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः॥ 13-24-10(81871)
तच्छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत्।
जगर्हे पन्नगान्सर्वान्मात्रा सह परंतपः॥ 13-24-11(81872)
ततस्तु रोषाद्दुःखाच्च तूर्णमुत्पत्यक पक्षिराट्।
जगाम यत्र माताऽस्य कृच्छ्रे महति वर्तते॥ 13-24-12(81873)
तत्रापश्यत्ततो दीनां जटिलां मलिनां कृशाम्।
तोयदेन प्रतिच्छन्नां सूर्याभामिव मातरम्॥ 13-24-13(81874)
तस्य दुःखाच्च रोषाच्च नेत्राभ्यामश्रु चास्रवत्।
प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः॥ 13-24-14(81875)
अनुक्त्वा मातरं किञ्चित्पतत्रिवरपुङ्गवः।
कद्रूमेव स धर्मात्मा वचनं प्रत्यभाषत॥ 13-24-15(81876)
यदि धर्मेण मे माता जिता यद्यप्यधर्मतः।
ज्येष्ठा त्वमसि मे माता धर्मः सर्वः स मे मतः॥ 13-24-16(81877)
इयं तु मे स्यात्कृपणा मयि पुत्रेऽम्ब दुःखिता।
अनुजानीहि तां साधु मत्कृते धर्मदर्शिनि॥ 13-24-17(81878)
कद्रूः श्रुत्वास्य तद्वाक्यं वैनतेयस्य धीमतः।
उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्च्छिता॥ 13-24-18(81879)
नाहं तव न ते मातुर्वैनतेय कथञ्चन।
कुर्यां प्रियमनिष्टात्मा मां ब्रवीषि खग द्विजा॥ 13-24-19(81880)
तां तदा ब्रुवतीं वाक्यमनिष्टं क्रूरभाषिणीम्।
दारुणां सूनृताभिस्तामनुनेतुं प्रचक्रमे॥ 13-24-20(81881)
गरुड रुवाच। 13-24-21x(6802)
ज्येष्ठा त्वमसि कल्याणि मातुर्मे भामिनि प्रिया।
सोदर्यी मम चासि त्वं ज्येष्ठा माता न संशयः॥ 7--24-22x कद्रूरुवाच। 13-24-21(81882)
विहङ्गम यथाकामं गच्छ कामगम द्विज।
सूनृताभिस्त्वया माता नादासी शक्यमण्डज॥ 13-24-22(81883)
अमृतं यद्याहरेस्त्वं विहङ्गं जननीं तव।
अदासीं मम पश्येमां वैनतेय न संशयः॥ ॥ 13-24-23(81884)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्विंशोऽध्यायः॥ 24 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|